Emblema do Yogabodha Kalyan, o olho que testemunha a chama sobre a roda do mantra
Vedanta

Kena Upaniṣad

केनोपनिषत्
॥ अथ केनोपनिषत् ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्य॑-ङ्करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षु-श्श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्व-म्ब्रह्मौपनिषद-म्मा-ऽह-म्ब्रह्म निराकुर्या-म्मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरण-म्मे-ऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
केनेषित-म्पतति प्रेषित-म्मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां-वाँचमिमां-वँदन्ति चक्षु-श्श्रोत्र-ङ्क उ देवो युनक्ति ॥ 1 ॥
श्रोत्रस्य श्रोत्र-म्मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः ।
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ 2 ॥
न तत्र चक्षुर्गच्छति न वागच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ 3 ॥
अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां-येँ नस्तद्व्याचचक्षिरे ॥ 4 ॥
यद्वाचा-ऽनभ्युदितं-येँन वागभ्युद्यते ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 5 ॥
यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 6 ॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 7 ॥
यच्छ्रोत्रेण न श‍ऋणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 8 ॥
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 9 ॥
यदि मन्यसे सुवेदेति दहरमेवापि नून-न्त्वं-वेँत्थ ब्रह्मणो रूपम् ।
यदस्य त्वं-यँदस्य देवेष्वथ नु मीमाम्स्यमेव ते मन्ये विदितम् ॥ 1 ॥
नाह-म्मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ 2 ॥
यस्यामत-न्तस्य मत-म्मतं-यँस्य न वेद सः ।
अविज्ञातं-विँजानतां-विँज्ञातमविजानताम् ॥ 3 ॥
प्रतिबोधविदित-म्मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं-विँद्यया विन्दते-ऽमृतम् ॥ 4 ॥
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ 5 ॥
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ 1 ॥
त ऐक्षन्तास्माकमेवायं-विँजयो-ऽस्माकमेवाय-म्महिमेति । तद्धैषां-विँजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं-यँक्षमिति ॥ 2 ॥
ते-ऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमिदं-यँक्षमिति तथेति ॥ 3 ॥
तदभ्यद्रवत्तमभ्यवदत्को-ऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ 4 ॥
तस्मिन्स्त्वयि किं-वीँर्यमित्यपीदꣳ सर्व-न्दहेयं-यँदिद-म्पृथिव्यामिति ॥ 5 ॥
तस्मै तृण-न्निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं-विँज्ञातुं-यँदेतद्यक्षमिति ॥ 6 ॥
अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ 7 ॥
तदभ्यद्रवत्तमभ्यवदत्को-ऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ 8 ॥
तस्मिन्स्त्वयि किं-वीँर्यमित्यपीदं सर्वमाददीय यदिद-म्पृथिव्यामिति ॥ 9 ॥
तस्मै तृण-न्निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं-विँज्ञातुं-यँदेतद्यक्षमिति ॥ 10 ॥
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ 11 ॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवती-न्ताग्ंहोवाच किमेतद्यक्षमिति ॥ 12 ॥
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ 1 ॥
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठ-म्पस्पर्​शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ 2 ॥
तस्माद्वा इन्द्रो-ऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठ-म्पस्पर्​श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ 3 ॥
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा(3) इती-न्न्यमीमिषदा(3) इत्यधिदैवतम् ॥ 4 ॥
अथाध्यात्मं-यँद्देतद्गच्छतीव च मनो-ऽनेन चैतदुपस्मरत्यभीक्ष्णं सङ्कल्पः ॥ 5 ॥
तद्ध तद्वन-न्नाम तद्वनमित्युपासितव्यं स य एतदेवं-वेँदाभि हैनग्ं सर्वाणि भूतानि सं​वाँञ्छन्ति ॥ 6 ॥
उपनिषद-म्भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं-वाँव त उपनिषदमब्रूमेति ॥ 7 ॥
तसै तपो दमः कर्मेति प्रतिष्ठा वेदा-स्सर्वाङ्गानि सत्यमायतनम् ॥ 8 ॥
यो वा एतामेवं-वेँदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ 9 ॥
॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षु-श्श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्व-म्ब्रह्मौपनिषद-म्मा-ऽह-म्ब्रह्म निराकुर्या-म्मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरण-म्मे-ऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
॥ इति केनोपनिषत् ॥